SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ PA जाव विहरति । तए णं से भगवं जंबू जातसड़े जाव पज्जुवासमाणे एवं वयासि-उबंगाणं भंते ! समणे णं जाव संपत्तेणं के अटे पणत्ते? एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं एवं उबंगाणं पंच वग्गा पन्नता, तं जहाशुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्वे जानुनी यस्य स ऊर्ध्वजानुः, अधःशिराः अधोमुखः नोर्व तिर्यग्वा निक्षिप्तदृष्टिः, किं तु नियतभूभागनियमितदृष्टिरिति भावना। यावत्करणात् 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथाहि-कोष्ठ के धान्य प्रक्षिप्तमविप्रकीर्ण भवति एवं स भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः। संयमेन-संवरेण तपसा ध्यानेन आत्मानं भावयन-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्माद् ध्यानादनन्तरं, णं इति वाक्यालङ्कारे, स आर्यजम्बूनामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुं स जातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यमाणवस्तुतत्वपरिज्ञानं प्रति यस्य स जातश्रद्धः। तथा जातः संशयोऽस्येति जातसंशयः, तथा जातकुतहल:-जातौत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्याङ्गेषु भणनादुपाङ्गेषु कोऽन्योऽर्थो भगवताऽभिहितो भविष्यति? कथं च तमहमवभोत्स्ये? इति 'उहाए उडेइ' उत्थानमुत्था-ऊर्व वर्तनं तया उत्तिष्ठति, उत्थाय च 'अन्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ ' ति त्रिः कृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणां-दक्षिणपार्वादारभ्य परिभ्रमणतः (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दते-वाचा स्तौति, नमस्यति-कायेन प्रणमति, 'नचासन्ने नाइदरे' उचिते देशे इत्यर्थः। 'सुस्ससमाणे' श्रोतुमिच्छन् । 'नमसमाणे' नमस्यन-प्रणमन् । अभिमुखं 'पंजलिउडे' कृतप्राञ्जलिः। विनयेन उक्तलक्षणेत 'पज्जुवासमाणे' पर्युपासनां विदधान एवं इति वक्ष्यमाणप्रकारं वदासि' त्ति अवादीतू-भगवता उपाडानां पञ्च वर्गाः प्रज्ञप्ताः,वोऽध्ययनसमुदायः, तद्यथेत्यादिना पश्च वर्गान् दर्शयतिFor Personal & Private Use Only I Jain Educा . l nelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy