________________
स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः-पुत्तलिका यत्र तत्तथा 'ईहा|मियउसभतुरगनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगा-वृका व्यालाः-स्वापदभुजङ्गा | ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं तत्स्तम्भोद्गतवज्रवेदिकापरिगताभिराम, 'विज्जाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद यमलयुगलं-समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यन्त्रं चसञ्चरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषां-किरणानां सहचैर्मालिनीयं-परिचारणीयं अर्चिःसहस्रमालिनीयं, तथा | रूपकसहस्रकलितं, 'भिसमाणंति' दीप्यमानं 'भिन्भिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोरणलेसंति' चक्षुः कर्तृ लोकने लिसतीच दर्शनीयत्वातिशयात् श्लिप्यतीव यत्र तत्तथा, 'सुहफासंति' शुभः कोमलः स्पर्शो यस्य तत्तथा, सश्रीकानिसशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर मिति घण्टावलेः-घण्टापलेातवशेन चलितायाः-कम्पितायाः मधुरः-श्रोत्रप्रियो मनोहरो-मनोनितिकरः स्वरो यत्र तत्तथा, चलितशब्दस्य विशेष्यात्परनिपातः प्राकुतत्वात् , 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् ‘कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिखित्त ' मिति निपुणक्रियमुचितानि-खचितानि 'मिसिमिसिंतत्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन -क्षुद्रघण्टिकासमूहेन परिः-सामस्त्येन क्षिप्तं व्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं |'दिव्यं । प्रधानं 'गमनसजं गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं' यानरूपं वाहनरूपं विमानं यानविमानं, शेषं प्राग्वत् ।
JainEducation
For Personal & Private Use Only
Jainelibrary.org