________________
Jain Education Int
-4610*169) *** 16-08-149) ***-14
'वयाई' "युक्तं, स्नाताः - कृतस्नानाः अनन्तरं कृतं बलिकर्म - स्वगृहदेवताभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमङ्ग : लान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्रः कौतुकानि - मनीतिलकादीनि मङ्गलानिसिद्धार्थ कदध्यक्षतदूर्वादीनि तथा शिरसि कण्ठे च कृता · माला त्यैस्ते, प्राकृतत्वात्पदन्यत्ययो विभक्तिष्यत्ययश्चेत्ति शिस्सा• कण्ठेपालाकृताः, तथा आविद्धानि - परिहितानि मणिसुवर्णानि यैस्ते तथा कल्पितो - विन्यस्तो हारः - अष्टादशस रिकोहारो - नवसरिक विसरिकं प्रतीतमेव यैस्ते तथा, तथा प्रलम्बो चुंबन के लम्बमानो येषां ते तथा, कटिसूत्रेण अन्यान्यपिः सुकृतशोभान्याभरणानि येषां ते कटिसूत्रकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारय, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, 'पुरिसवग्गुरापरिखित्ता' इति, पुरुषाणां वागुरेव वागुरा - परिक• रस्तया परिक्षिप्ताः - व्याप्ताः, 'महया' इति महता उत्कृष्टिय आनन्दमहाध्वनिः सिंहनादश्व- सिंहस्येव नादः बोलव-वर्णव्यक्तिवर्जित ध्वनिः, कलकलश - व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव समुद्रमहाघोषप्राप्तमिव श्रावस्तीं नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव - आकाशतलमिव स्फोटयन्तः, ' एगदिसाए ' इति, एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा - एकं भगवन्तं प्रति अभिमुखाः, 'वाउग्घंटं ति चतस्रो घण्टा अवलम्बमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेषं प्रागू व्याख्यातार्थ, 'जह जीवा बज्झन्ती' स्यादिरूपा धर्मकथा औपपातिक ग्रन्थादवसेया, लेशतस्तु प्रागेव दर्शिता, 'सहहामी' त्यादि, श्रद्दधे अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचनं - जैनशासनम्, एवं ' पत्तियामि इति प्रत्ययं करोम्यत्रेतिभावः रोचयामि - करणरुचिविषयीकरोमि चिकीर्षा
For Personal & Private Use Only
********16)469) **** (6) #
lainelibrary.org