________________
जनं वा कुर्वतो वस्त्रं वपुर्वा यथा नर्तितं न भवति 'अवलितं' यथाऽऽत्मनो वस्त्रस्य च वलितमिति मोटनं न भवति 'अणाणुबंधि'न्ति 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा, कोऽर्थः-अलक्ष्यमाणविभागं यथा न भवति, 'आमोसलिन्ति सूत्रत्वादामर्शवत्तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शवद्यथा न भवति, उक्तं हि"तिरिउगृहघट्टणाऽऽमुसलि"ति, तथा किमित्याह–'छप्पुरिम'त्ति षट् पूर्वाः पूर्वं क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका क्रियाविशेषा येषु ते षट्पूर्वाः, 'नवखोडत्ति खोटकाः समयप्रसिद्धाः स्फोटवात्मकाः कर्तव्या इति शेषः 'पाणी' पाणितले 'प्राणिनां' कुन्थ्वादिसत्त्वानां विशोधनं पाठान्तरतश्च-'प्रमार्जनं' प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं पाणिप्राणिप्रमार्जनं वा कर्तव्यं । प्रतिलेखनादोषपरिहारार्थमाहआरभटा विपरीतकरणमुच्यते त्वरितं वाऽन्यान्यवस्त्रग्रहणेनासौ भवति, उक्तं हि-"वितहकरणमारभडा तुरियं वा अन्नमनगहणेणं" संमर्दनं समर्दा रूढित्वात्स्त्रीलिङ्गता वस्त्रान्तःकोणसंचलनमुपधेर्वा उपरि निषदनम् , उक्तञ्च"अंतो व होज कोणा णिसियण तत्थेव सम्मदा" वर्जयितव्येति सर्वत्र संबध्यते, 'चः' पूरणे 'मोसलि'त्ति | तिर्यगूर्वमधो वा घट्टना तृतीया, 'प्रस्फोटना' प्रकर्षण रेणुगुण्डितस्येव वस्त्रस्य झाटना चतुर्थी, विक्षेपणं विक्षिप्ता
१ तिर्यगूर्ध्वमधो घटनाऽमोसलिरिति २ वितथकरणं आरभटा त्वरितं वा अन्याऽन्यग्रहणेन ३ अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव संमर्दा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org