SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ जीवाजीव विभकि. उत्तराध्य. जिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेणं । अमला असंकिलिहा ते हंति परित्तसंसारा ॥२५॥ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याणंति २५९/ बृहद्धृत्तिः जिना इहार्थात्तीर्थकृतस्तेषामुच्यत इति वचनम्-आगमो जिनवचनं तस्मिन् 'अनुरक्ताः' सततं प्रतिबद्धाः, तथा I૭૦૮ |'जिनवचनम्' इति वाच्यवाचकयोरभेदोपचाराजिनवचनाभिहितमनुष्ठानं ये 'कुर्वन्ति' अनुतिष्ठन्ति 'भावेन' आन्त ६रपरिणामेन न तु बहिवृत्त्यैव तत एवाविद्यमानो मल इति भावमलस्तदनुष्ठानमालिन्यहेतुर्मिथ्यात्वादिरेषामित्य मलाः, तथा 'असंक्लिष्टाः' रागादिसङ्क्तेशरहितास्ते 'भवन्ति' जायन्ते परितः-समस्तदेवादिभवाल्पतापादनेन समन्तात्खण्डितः परिमित इतियावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः-कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः, सूत्रे च प्राकृतत्वाद्वचनव्यत्ययः । 'बालमरणैः' विषभक्षणोद्वन्धननिबन्धनैः 'बहुशः'| अनेकधा 'अकाममरणानि' यान्यत्सन्तविषयगृनुत्वेनानिच्छतां भवन्ति तैश्च, उभयत्र सुब्ब्यत्ययः प्राग्वत् , 'एव | चेति पूरणे 'बहूनि अनेकानि मरिष्यन्ते ते 'वराकाः' बहुदुःखभाजनतयाऽनुकम्पनीयाः 'जिनवचनम्' उक्तरूपं ये 'न जानन्ति' नावबुध्यन्ते ज्ञानफलत्वादनुष्ठानस्य न चानुतिष्ठन्तीति सूत्रद्वयार्थः ॥ यतश्चैवमतो जिनवचनं भावतः कर्तव्यं, तद्भावकरणं चालोचनया, सा च न तच्छ्रवणार्हान् विना, ते च न हेतुन्यतिरेकेणेति यैर्हेतुभिरमी भवन्ति तानाह ॥७०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy