________________
बारसेत्यादि सूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वर्षाणि' संवत्सरान् संलेखनं-द्रव्यतः शरीरस्य भावतः कपायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भवेत् , 'संवच्छर'ति संवत्सरं-वर्ष मध्यमैव मध्यमिका, षण्मासान् 'चः' पुनरर्थे भिन्नक्रमस्ततो जघन्यैव जघन्यिका पुनः, पठन्ति च-'उक्कोसिया' इत्यत्र 'उक्कोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जहण्णतो'त्ति । इत्थं संलेखनायास्त्रैविध्ये
उत्कृष्टायाः क्रमयोगमाह-'प्रथम' आद्ये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्तनं वृत्तिनिर्वहणमित्यर्थः प्रस्तावात्क्षी. है रादिविकृतिस्तस्या नियूहणम्-आचामाम्लस्य निर्विकृतिकस्य वा तपसः करणेन परित्यागो वृत्तिनिर्ग्रहणमनु (णं तत्)
कुर्यात् , पठ्यते च–'विगईनिज्जूहणं करे'त्ति स्पष्टम् , इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्-'अन्ने |चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण पारेइ निविएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्टये एतदुक्तम् , अत्र च सूत्रे प्रथम दृश्यत इत्युभयथापि करणे दोषाभावमनुमिमीमहे, तयोरस्य च प्रमाणभूतत्वात् , द्वितीये वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उग्गमविसुद्धं सवं कप्पणिजं पारेति"त्ति । एकेन-चतुर्थलक्षणेन तपसाऽन्तरं-व्यवधानं यस्मिंस्तदेकान्तरम् 'आयामम्' आचाम्लं 'कह'त्ति कृत्वा संवत्सरो द्वौ, 'ततः' तदनन्तरं 'संवत्सबर्द्ध' मासपर्ट्स 'तुः' पूरणे 'न'।
१ अन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वाऽऽचाम्लेन निर्विकृतिकेन वा पारयति २ उद्गमविशुद्धं सर्व कल्पनीयं पारयति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org