SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥७०१ ॥ | चेगं' जोयणसहस्सं यजेत्ता मज्झे अट्ठहत्तरजोयणसयसहस्से, एत्थ णं भवणवासीणं देवाणं सत्त भवनकोडीओ बावन्तरिं च भवणावासस्यसहस्सा हवंतीति मक्खायं" 'वाणमंतर'त्ति आर्षत्वाद् विविधान्यन्सराणि - उत्कर्षा - पकर्षात्मकविशेषरूपाणि निवासभूतानि वा गिरिकन्दरविवरादीनि येषां तेऽमी व्यन्तराः, उक्तं हि "ते धस्तिर्य - गूर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारान्मनुष्यानपि क्वचि - नृत्यवदुपचरन्ति, तथा विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते, " 'जोइस' त्ति, द्योतयन्तीति ज्योतींषि - विमानानि तन्निवासित्वाद्देवा अपि ज्योतींषि, ग्रामः समागत इत्यादौ तन्निवासिजनग्रा - मवत्, विशेषेण मानयन्ति – उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, 'तथे 'ति समुचये इति सूत्रार्थः ॥ एषामेवोत्तरभेदानाह दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ २०३ ॥ 'दशधा वि' ति दशचैव 'भवणवासि'त्ति भवनेषु वस्तुं शीलमेषामिति भवनवासिनः 'अष्टधा' अष्टप्रकारा वने| पु-विचित्रोपवनादिषूपलक्षणत्वादन्येषु च विविधास्पदेषु क्रीडैकरसतया चरितुं शीलमेषामिति वनचारिणः-व्यन्तराः १ चैकं योजनसहस्रं वर्जयित्वा मध्येऽष्टसप्ततियोजनशतसहस्रे, अत्र भवनवासिनां देवानां सप्त भवनकोटयो द्वासप्ततिश्च भवनावासशतसहस्राणि (च) भवन्ति इत्याख्यातं Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति ० ३६ ॥७०१ ॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy