________________
किमित्येवंविधाः ?-यतोऽविद्यमानं नानात्वं-नानाभावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रेति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह
सुहमा य सव्वलोगंमि, लोगदेसे य बायरा। सूक्ष्माः 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'चः' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह
- एत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ ७८ ॥ | प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच साईया, सपज्जवसियावि य ॥७९॥ बावीससहस्साई, वासाणुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्निया ॥८॥असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ॥८१॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । |विजढंमि सए काए, पुढविजीवाण अंतरं ॥८२॥ | 'सन्तति' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' भव-४ स्थितिरूपां 'प्रतीत्य' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org