SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ जत्ती॥ १॥" साऽस्त्येषामित्यर्शआदेराकृतिगणत्वादचि पर्याप्सास्तद्विपरीताश्चापर्याप्ताः, 'एवं' इत्यनेन पर्याप्तापर्याप्तभेदेन 'एते' सूक्ष्मा बादराश्च, पठन्ति च-'एगमेगे'त्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरभेदानेवाह-'बायरा जेत्ति वादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, कथम् ? इत्याह-'श्लक्ष्णा' इह चूर्णितलोप्टकल्पा मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, 'खराः' कठिनाः 'च' समुच्चये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन्' इत्युक्तरूपभेदद्वये । यथा चामी सप्तविधास्तथाऽऽह-कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शुक्लाः 'तथेति समुच्चये 'पंड'त्ति पाण्डवः-आपाण्डुःआईपच्छुभ्रत्वमाज इतियावत् , इत्थं वर्णभेदेन पड्डिधत्वम् , इह च पाण्डुरग्रहणं कृष्णादिवर्णानामपि खस्थानभेदेन भेदाढ़ेदान्तरसम्भवसूचकं, पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसङ्कहेऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधानमपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिघाते झगित्युज्जृम्भणं, खरपृथिवीभेददर्शनोपक्रममाह-'खराः' प्रक्रमाद्वादरपृथिवीजीवाः षट्त्रिंशद्विधाः' पत्रिंशद्भेदाः । तानेवाह-'पृथिवी'ति भामा सत्यभामावच्छुद्धपृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलसकलरूपा, 'वालुका च' प्रतीता, 'उपलः' गण्डशैलादिः, 'शिला च' दृषत् 'लोणूसे अयतंबतउयसीसयरूप्पसुवण्णे य'चि लवणं For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy