________________
MANORAMCHOCALCOM
PIक्यादिवत् कटुकाश्च सुण्ठ्यादिवत् कषायाश्च अपक्ककपित्थादिवत्तिक्तकटुकषायाः आम्लाः आम्लवेतसादिवत् ।
मधुराः शर्करादिवत् कर्कशाः पाषाणादिवत् मृदवः हंसरूतादिवत् गुरवः हीरकादिवत् लघवः अर्कतूलादिवत् शीताः मृणालादिवत् उष्णाः वयादिवत् स्निग्धाः घृतादिवत् रूक्षाः भूत्यादिवत्, उपसंहारमाह-'इती'त्यमुना प्रकारेण स्पर्शपरिणताः 'एते' स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः 'समुदाहृताः' सम्यकप्रतिपादितास्तीर्थकृदादिभिः। संतिष्ठन्त एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः परिमण्डलादयः प्राग्वद्यावर्णितखरूपा एव ७ । सम्प्रत्येषामेव परस्परसंवेधमाह-वर्णतः 'यः' स्कन्धादिर्भवेत्कृष्णः 'भइए'त्ति भाज्यः 'से उत्ति स पुनः 'गन्धतः' गन्धमाश्रित्य सुरभिगन्धी दुर्गन्धो वा स्यात् न तु नियतगन्ध एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, अन्यतररसादियोग्य एवासौ भवेदिति हृदयम्, अत्र च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गान् लभते २०, एवं नीलोऽपि २०, लोहितोऽपि २०, पीतक इति-हारिद्रः सोऽपि २०, 'सुकिलत्ति शुक्लोऽप्येतावत एव भङ्गान् लभत इति २०, एवं पञ्चभिरपि वर्णैर्लब्धं शतम् १००। गन्धतो यः स्कन्धादिर्भवेत् 'सुन्भि'त्ति सुरभि ज्यः स तु वर्णतो|ऽन्यतरकृष्णादिवर्णवान् स्यादितिभावः, एवं रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, इह च रसादयोऽष्टादश ते च पञ्चभिर्वर्णर्मीलितैस्त्रयोविंशतिर्भवन्ति २३, एवं च दुर्गन्धविषया अप्येतावन्त एव २३, ततश्च गन्धद्वयन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org