________________
उत्तराध्य.
लेश्याध्य
यनं. ३४
बृहद्वृत्तिः ॥६५॥
अस्संखिजाणोसप्पिणीण उस्सप्पिणीण जे समया । संखाईया लोगा लेसाण हवंति ठाणाई ॥ ३३ ॥ 'असङ्खयेयानां सङ्ख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्य हासमनुभवन्त्यवश्यमित्यवसर्पिण्यो-दशसागरोपमकोटीकोटिपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्प|न्ति–उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यस्तासां ये 'समयाः' परमनिरुद्धकाललक्षणाः, कियन्त इत्याहसङ्ख्यातीताः पाठान्तरतोऽसङ्खयेया वा लोका असङ्खयेयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन ब्रीहयो दशप्रस्थाः, ततोऽयमर्थः-असङ्खयेयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां! ये समया गम्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति च क्षेत्रतः स्थानमानमेवोक्तमिति सूत्रार्थः ॥ उक्तं स्थानमिदानी स्थितिमाह
मुहुत्तद्धं तु जहन्ना तित्तीसा सागरा मुहुत्तहिया । उक्कोसा होइ ठिई नायव्वा किण्हलेसाए ॥ ३४ ॥ मुहुत्तद्धं तु जहन्ना दसउदहिपलियमसंखभागमेन्भहिया । उक्कोसा होइ ठिई नायव्वा नीललेसाए ॥ ३५॥ मुहुत्तद्धं तु जहन्ना तिण्णुदही पलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा काउलेसाए ॥३६ ॥ मुहत्तद्धं तु जहन्ना दोण्हुदही पलियमसंखभागमभहिआ। उक्कोसा होइ ठिई नायव्वा तेउलेसाए ॥ ३७॥
॥६५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org