________________
कर्मबन्धसद्भावेऽपि न स्थितिसम्भयो, यदुक्तम्-"तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निजिणं"ति, आह-यदि कर्मनिस्यन्दो लेश्या तदा समुच्छिन्नक्रियं शुक्लध्यानं ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न लेश्यासद्भावः ?, उच्यते, नायं नियमो यदुत निस्सन्दवतो निस्सन्देन सदा भाव्यं, कदाचिन्निस्यन्दवत्खपि वस्तुषु तथाविधावस्थायां तदभावदर्शनात् , यचोक्तम्-अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभाव इति निश्चिनुमः-योगपरिणाम एव लेश्येति, तदप्यसाधकं, यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूपा एव, यत उक्तम्-“यच चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते ॥ १॥” अन्ये त्याहुःकार्मणशरीरवत्पृथगेव कर्माष्टकाकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या,भावलेश्यामाह-द्विविधा च भावलेश्या 'विशुद्धलेश्या'अकलुषद्रव्यसंपर्कजात्मपरिणामरूपा तथैव अविशुद्धा इत्यविशुद्धलेश्या, तत्र द्विविधा विशुद्धलेश्या 'उवसमखइय'त्ति सूत्रत्वादुपशमक्षयजा,केषां पुनरुपशमक्षयौ ? यतो जायत इयमित्याह-कषायाणाम् , अयमर्थः-कपायोपशमजा कषायक्षयजा च, एकान्तविशुद्धिं चाऽऽश्रित्यैवमभिधानम् , अन्यथा हि क्षायोपशमिक्यपि शुक्ला तेजःपद्मे च विशुद्धलेश्ये संभवत एवेति । अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता 'द्विविधा' द्विभेदा 'णियमसा उत्ति, आर्षत्वात् 'नियमेन' अवश्यम्भावेन ज्ञातव्या 'पेजंमि य'त्ति 'दोसंमिय'त्ति प्रेमणि च-रागे दोपे च द्वये, किमुक्तं भवति?-रागविषया द्वेषविषया च, इयं चार्थात्कृष्णनीलकापोतरूपा,
-455125ARRC
Jain Education International
For Personal & Private Use Only
www.janelibrary.org