SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५२१॥ तं अन्नमन्नघायं जयघोसो पासिऊण पडिबुद्धो । गंगाओ उत्तरिउं समणाणं आगओ वसहिं ॥ ४६८ ॥ सो समणो पवइओ निग्गंथो सवगंथउम्मुको । वोसिरिऊण असारे केसेहि समं परिक्केसे ॥ ४६९ ॥ पंचमहवयजुत्तो पंचिंदिअसंवुडो गुणसमिद्धो । घडणजयणप्पहाणो जाओ समणो समिअपावो ४७० आसामक्षरार्थः स्पष्ट एव, नवरं 'कासवसगोत्त'त्ति काश्यपकुलोत्पन्नाः काश्यपास्तैः समानं गोत्रं ययोस्तौ काश्यपसगोत्रौ 'छक्कम्मरय'त्ति षट् कर्माणि – यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकानि तेषु रतौ - आसक्तौ षट्कर्मरतौ, तथा द्वावपि 'यमलौ' युग्मौ उत्पन्नौ 'भाग्य'त्ति भ्रातरौ 'संप्रीतौ' विद्यमानसम्यग्वाह्यप्रीती 'अन्योऽन्यमनुरक्तौ' आन्तरप्रीतियोगतः परस्परस्नेहवन्तौ, आगमः - श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलाबागमकुशलौ, अत| एव खदाररतौ। 'हाइउं' ति स्नातुं । 'कुररेण' मार्जारनाम्ना पक्षिविशेषेण 'उक्खित्तो' त्ति उत्क्षिप्तः, उत्क्षिप्य च कथं नामासौ म्रियतामिति पातितश्च भूमौ 'अक्कमिउ'न्ति आक्रम्य - अवष्टभ्य । सर्पः कुररवशगतः - कुरराधीनतां प्राप्तः 'चिंचियायंतं' ति चिंचिमिति कुर्वन्तं 'चण्डैः' बृहत्खण्डनात्रोटनतोऽत्यन्तरौद्रैः 'ग्रासैः' प्रतीतैः । 'तम्' इत्युक्तरूपमन्यो|ऽन्यघातं - कुररसर्पमण्डूकगतं 'पासिऊणं 'ति दृष्ट्वा 'प्रतिबुद्धः ' अहो ! दुरन्तोऽयं संसार इत्यादिपरिभावनया अवगततत्त्वः 'सः' इति जयघोषः समनाः - सहृदयो विशिष्टाभोगयुक्त इत्यर्थः ' प्रत्रजितः' हेयधर्मेभ्यो 'निर्ग्रन्थः ' ग्रन्थ Jain Education International For Personal & Private Use Only यज्ञीया ध्यय. २५ ॥५२१॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy