________________
क्रोधादयः 'इन्द्रियाणि' स्पर्शनादीनि, चशब्दान्नोकपायादयः कषायाद्युत्तरोत्तरभेदाश्च, अजिताः शत्रव इति वचनविपरिणामेन योज्यते । इह च कपायाणां प्रथमत उपादानमिन्द्रियाणामपि कपायवशत एवानथेहेतुत्वख्यापनार्थ, सम्प्रत्युपसंहरव्याजेन तजये फलमाह-'तान्' उक्तरूपान् शत्रून् 'जित्वा' अभिभूय 'यथान्यायं' यथोक्तनीत्यनतिक्रमेण ततो विहरामि-तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते, तेषामेव प्रतिबन्धहेतुत्वेन तद्विबन्धकाभावादिति भावः, अहमित्यात्मनिर्देशः 'मुने' इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः ॥ एवं गौतमेनाभिहिते
साह गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!॥ ३९॥
प्राग्वत् ॥ सम्प्रति 'पासावगत्तणं'ति चतुर्थद्वारमधिकृत्याहall दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुन्भूओ, कहं तं विहरसी मुणी ! ?॥४०॥ ते पासे |
सव्वसो छित्ता, निहंतूण उवायओ। मुक्कपासो लहुन्भूओ, विहरामि अहं मुणी ॥ ४१ ॥ पासा अ इइ के 5 वुत्ता, केसी गोयममब्बवी । केसिं एवं बुवंतं तु, गोयमो इणमब्बवी ।। ४२॥ रागदोसादओ तिव्वा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहक्कम ॥४३॥ 2 सूत्रचतुष्टयं स्पष्टमेव नवरं पाशैद्धा-नियत्रिताः पाशबद्धाः ‘शरीरिणः' प्राणिनः, 'मुक्तपाशः' त्यक्तपाशोऽत एव ।
लघुभूतो-घायुः, ततो लघुभूत इव लघुभूतः सर्वत्राप्रतिवद्धत्वात् । गौतम आह-'ते' इति तान्-लोकबन्धकान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org