SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ देव प्रतिज्ञानं प्रतिज्ञा-अभ्युपगमः, प्रक्रमात्पार्थवर्द्धमानयोः, प्रतिज्ञाखरूपमाह-'मोक्खसम्भूयसाहण'त्ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वान्मोक्षसद्भूतसाधनानि, कानीत्याह-'ज्ञानं च' यथावदवबोधः । 'दर्शनं च' तत्त्वरुचिः 'चारित्रं च' सर्वसावधविरतिः 'एवे' त्यवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनता व्यवच्छिनत्ति, ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गमिति, श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलज्ञानोत्पत्तिः, 'निश्चये' |इति निश्चयनये विचार्ये, व्यवहारनये तु लिङ्गस्यापि कथञ्चिन्मुक्तिसद्भुतहेतुतेष्यत एव, तदयमभिप्रायः-निश्चयप्रस्तावल्लिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोऽकिञ्चित्करत्वान्न विदुषां |विप्रत्ययहेतुता, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ । साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३४ ॥ * प्राग्वत् । अत्र च तृतीयद्वारं शत्रूणां पराजय इति, एतदधिकृत्याह अणेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ! ते अ ते अभिगच्छंति, कहं ते निजिया तुमे? ॥ ३५॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥ ३६॥ सत्तू अ इइ के वुत्ते?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ३७॥ एगप्पो अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ३८ ॥ Jan Education For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy