SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 15-1 -4UCGARCAGC योपात्तीद्वाचकभेदादेव धर्मस्य द्वैविध्यं, न तु वस्तुभेदात्, यद्वाचकभेदेऽपि वस्तुतो व्रतपञ्चकस्यैवात्र विवक्षितत्वात् , प्रसङ्गतश्चेहायजिनाभिधानमिति सूत्रत्रयार्थः ॥ इत्थं गौतमेनोक्ते केशिराह| साह गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा! ॥२८॥ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ २९॥ एगकजप वन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥ ३०॥ M 'साधु'त्ति साधुः-शोभना गौतम ! 'प्रज्ञा' बुद्धिः 'ते' तव, यतः 'छिन्नः' अपनीतस्त्वयेति गम्यते, मम 'संशयः । सन्देहः 'इमोत्ति अयम्-उक्तरूपः, पठन्ति च-पण्णाए'त्ति, तत्र च साधु यथा भवत्येवं गौतम ! 'प्रज्ञया' बुद्धया ६ छिन्नो मे संशयोऽयं, त्वयेति व्याख्येयं, विनेयापेक्षं चेत्थमभिधानं, न तु तस्य मतिश्रुतावधिज्ञानत्रयसमन्वितस्यैवंविधः । है संशयसम्भव इति सर्वत्र भावनीयम् । 'अन्योऽपि' वक्ष्यमाणः संशयो मम तं मे कथय गौतम !, तद्विषयमप्यर्थे । यथावत्प्रतिपादयेति भावः । अत्र च द्वितीयं द्वारं 'लिंग'त्ति, लिङ्गयते-गम्यतेऽनेनायं व्रतीति लिङ्ग-वर्षाकल्पा|दिरूपो वेषः, तदधिकृत्याह-'अचेलओं' इत्यादि, प्रागू व्याख्यातमेव, नवरं 'महामुनि'त्ति महामुने!, पठन्ति च, 'महाजस'त्ति महायशाः, लिङ्गे द्विविधे-अचेलकतया विविधवस्त्रधारकतया च द्विभेद इति सूत्रत्रयार्थः ॥ एवं केशिनाऽभिहिते गौतमवचोऽभिधायकं सूत्रत्रयम् www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy