SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ यान्ति, उपलक्षणत्वाद्ता गमिष्यन्ति च, उपलक्षणं चैतत् सौधादिगमनस्य, तत्रापि तेषां केषाञ्चिद्गमनसम्भवात् , 'शिक्षित्वा' अभ्यस्य 'संयम सप्तदशभेदं 'तपो द्वादशभेदं, क इत्याह-'भिक्खाए वा गिहत्थे वत्ति प्राकृतत्वाद्वचनव्यत्ययेन भिक्षाको वा गृहस्थो वा भावतो यतय एवेतियावत् , अत एवाह-जे'इति ये शान्त्या-उपशमेन परिनि ताः-शीतीभूता विध्यातकषायानलाः शान्तिपरिनिर्वृताः, यद्वा-ये केचन 'सन्ति' विद्यन्ते परिनिर्वृताः, अत्र च | देवो वा स्यादित्येकवचनप्रक्रमेऽपि यद्बहुवचनाभिधानं तद्याप्त्यर्थ, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवं क्रामति किन्तु सर्वोऽपि इत्युक्तं भवतीति सूत्रार्थः ॥ २८ ॥ एतच्चाकर्ण्य मरणेऽपि यथाभूता है महात्मानो भवन्ति तथाऽऽह तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ । ण संतसंति मरणते, सीलवंता बहुस्सुआ ॥२९॥ __ व्याख्या-'तेषाम्' अनन्तराभिहितखरूपाणां भावभिक्षूणां 'श्रुत्वा' आकर्योक्तरूपस्थानावाप्तिमिति शेषः, कीदृशाम् ?-'सत्पूज्यानां सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां' संयमवतां 'वुसीमओ'त्ति प्राग्वत् , 'न संत्रस्यन्ति' नोद्विजन्ते, कदा ?-मरणे मरणेन वाऽन्तो मरणान्तस्तस्मिन् आवीचीमरणापेक्षया वाऽन्त्यदमरणे, प्राकृतत्वाच्च परनिपातः, समुपस्थित इति शेषः, शीलवन्तः' चारित्रिणो 'बहुश्रुता' विविधागमश्रवणावदाती-|३|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy