________________
मृगापुत्री
उत्तराध्य. बृहद्वृत्तिः ॥४६॥
या०१९
SAEESEARUSA
मिव तां मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च-'संवेगजणियसद्धोति स्पष्टमेव, तथा मोक्षो-मुक्तिस्तद्गमनाय बद्धमिति-धृतं चिह-धर्मध्वजादि तदेव सन्नाहो-दुर्वचनशरप्रसरनिवारकः क्षान्त्यादिर्वा येन स तथा, 'पडिच्छीयत्ति 'प्रत्यैषीत्' प्रतिपन्नवानिति गाथाचतुष्टयार्थः ॥ ततोऽसौ कीदृक् सात इत्याह| पंचमहन्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ । सभितरवाहिरिए, तवोकम्ममि उज्जुओ ॥४८॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समो अ सव्वभूएसु, तसेसु थावरेसु अ॥८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ ॥९०॥ गारवेसु कसाएसु, दंडसल्लभएसु अ। नियत्तो हाससोगाओ, अनियाणो अबंधणो॥९१॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। वासीचंदणकप्पो अ, असणे अणसणे तहा ॥९२ ॥ अप्पसत्थेहिं दारोहिं, सवओ पिहियासवो । अज्झप्पझाणजोगेहिं, पसत्थदमसासणो ॥१३॥ । सूत्रपट्वं निगदसिद्धमेव, नवरं 'सभितरवाहिरिए'त्ति सहाभ्यन्तरैः-प्रायश्चित्तादिभिर्वादैश्च-अनशनादिभिर्भदैर्वतत इति सबाह्याभ्यन्तरं तस्मिन् , प्रधानत्वाच प्रथममभ्यन्तरोपादानं ॥ 'निर्ममः' ममत्वबुद्धिपरिहारतः 'निस्सङ्गः'। सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेत्यादिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः'। न लाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ दैन्यवान् ,जीविते मरणे समो, नैकत्राप्याकाङ्कावान्, 'माणावमाणओ'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org