________________
येन कालेन, तत्पल्योपममुच्यते ॥ २॥” इति वचनाद्वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविपया यस्या सा वर्षशतोपमा, द्विविधाऽपि स्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात् , तत्र मम महापाली दिव्या भवस्थि-|४|| तिरासीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः। 'से' इत्यथ स्थितिपरिपालनादनन्तरं 'च्युतः' भ्रष्टः 'ब्रह्मलोकात्' पञ्चमकल्पात् 'मानुष्यं' मनुष्यसम्बन्धिनं 'भवं' जन्म 'आगत' आयातः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायातिशयान्तरमाह-आत्मनश्च परेषां वा 'आयुः' जीवितं 'जाने' अवबुध्ये 'यथा' येन प्रकारेण |स्थितमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः ॥ इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि ववृत्तान्तमावेद्योपदेष्टुमाह
नाणा रुइंच छंदं च, परिवजिज संजओ । अणट्ठा जे अ सव्वत्था, इइ विजामणुसंचरे ॥३०॥ । 'नाने' सनेकधा 'रुचिं च' प्रक्रमाक्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' खमतिकल्पितमभिप्रायम् , इहापि|| नानेति सम्बन्धादनेकविधं परिवर्जयेत्' परित्यजेत् ‘संयतः' यतिः । तथा 'अनर्थाः' अनर्थहेतवो ये च सर्वार्थाः अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा 'सवत्थे'त्याकारस्यालाक्षणिकत्वात्सर्वत्र क्षेत्रादावन इति-निष्प्रयोजना ये च व्यापारा इति गम्यते, तान् परिवर्जयेत् , 'इती' त्येवंरूपां 'विद्या' सम्यग्ज्ञानरूपामन्विति | -लक्षीकृत्य 'संचरेः' त्वं सम्यक् संयमावनि याया इति सूत्रार्थः ॥ अन्यच
SAAS AASAASAASAASAASAS
For Personal & Private Use Only
dan Education International
www.jainelibrary.org