SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अकाम बृहद्वृत्तिः मरणाध्य. ॥२३०॥ कति' कियन्ति मरणानि, अङ्गीकृत्य इति शेषः, म्रियते-प्राणांस्त्यजति, जन्तुरिति गम्यते, 'एगसमयंति सुब्ब्यत्ययात् । ६ एकस्मिन् समये 'कइखुत्तो'त्ति कतिकृत्वः कियतो वारान् , 'वा' समुच्चये, अपिः पूरणे, 'एकेकंति' एकैकस्मिन् वक्ष्यमा णभेदे मरणे म्रियते इति योज्यम् , 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो'त्ति कतिसङ्ख्यो भागो म्रियते, 'सर्व जीवानाम् ' अशेषजीवानाम् 'अणुसमय'ति प्रतिसमयं निरन्तरमितियावत् , अन्तरं-व्यवधानं सहान्तरेण वर्तत इति सान्तरं, वा विकल्पे, किमुक्तं भवति ?-एषु कतरनिरन्तरं सान्तरं वा ?, तथैकैकं कियचिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः ॥ २१०-२११ ॥ भावार्थ तु खत एव वक्ष्यति नियुक्तिकारः-तत्र च 'यथोद्देशं निर्देश' इति न्यायतः प्रथमं द्वारमाश्रित्याहआवीचि ओहि अंतिय वलायमरणं वसहमरणं च । अंतोसल्लं तब्भव बालं तह पंडियं मीसं ॥ २१२॥ छउमत्थमरण केवलि वेहाणस गिद्धपिट्टमरणं च । मरणं भत्तपरिण्णा इंगिणी पाओवगमणं च ॥२१३॥ | व्याख्या-इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिमरणम् २ 'अन्तियत्ति आर्ष वादत्यन्तमरणं ३ 'वलायमरणं ति तत एव वलन्मरणं ४ वशार्त्तमरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा पण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ 'वेहाणसं'ति तत एव वैहायसमरणं ॥२३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy