SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. कतराणीत्यादिप्रश्नसूत्रम् इमानीत्यादि निर्वचनसूत्रं च प्राग्वत् , तान्येवाह-तं जहे'त्यादि, 'तद्यथे' त्युपन्यासे - दशब्रह्म 18 विविक्तानि' स्त्रीपशुपण्डकाकीर्णत्वविरहितानि, शय्यते येषु तानि शयनानि च-फलकसंस्तारकादीनि, आसते वृहद्वृत्तिः येषु तानि आसनानि च-पादपीठपुञ्छनादीनि शयनासनानि, उपलक्षणत्वात्स्थानानि च 'सेवेत' भजेत यः सः । समाधिः॥४२॥ निर्ग्रन्थः' द्रव्यभावग्रन्थानिष्क्रान्तो भवतीति शेषः । इत्थमन्वयेनाभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरे ||केणाह-'नो' नैव स्त्रियश्च-दिव्या मानुष्यो वा पशवश्च-अजैडकादयः पण्डकाश्च-नपुंसकानि स्त्रीपशुपण्डकास्तैः द संसक्तानि-आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि 'शयनासनानि' उक्तरूपाणि 'सेविता' उपभोक्ता भवति, तदि'त्य नन्तरोक्तं 'कथं' केनोपपत्तिप्रकारेण ?, 'इति चेद' एवं यदि मन्यसे. अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेवमानस्य' उपभुआनस्य 'बंभयारिस्स'त्ति अपिशब्दस्य गम्यमानत्वाद् ब्रह्मचारिणो|ऽपि सतो ब्रह्मचर्ये 'शङ्का वा' किमेताः सेवे उत नेत्येवंरूपा, यदिवा इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषांयथा किमसावेवंविधशयनासनसेवी ब्रह्मचार्युत नेति, 'काङ्क्षा' वा स्याद्यभिलापरूपा 'विचिकित्सा' वा धर्म प्रति चि-से. त्तविप्लुतिः ‘समुत्पद्यते' जायते, अथवा शङ्का रूयादिभिरत्यन्तापहृतचित्ततया विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि ॥४२॥ हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥१॥” इत्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव न तीथकृद्भिक्तो भविष्यति, एतदासेवने वा यो दोष उक्तः स दोष एव न Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy