SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ मानं, वृद्धास्तु व्याचक्षते-'लोलुप्यमाणं'ति लालप्यमानं-'भरणपोषणकुलसंताणेसु य तुब्भे भविस्सह'त्ति, 'बहुधा' ४ अनेकप्रकारं 'बहुँ' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, 'पुरोहितं' 'पुरोधसं 'त'मिति प्रक्रान्तं 'कमसो'त्ति क्रमेण-परिपाट्या 'अनुनयन्तं' वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च-तौ भोगैरुपच्छन्दयन्तं 'सुतौ' पुत्रौ 'धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणैः' अभिलपणीयशब्दादिविषयः, पाठान्तरतःकामगुणेषु वा, 'चः' समुच्चये 'एव' इति पूरणे, कुमारको तावनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्पणाज्ञानाच्छादितमतिमालोच्य 'वाक्यं वचो वक्ष्यमाणमुक्तवन्ताविति गम्यते । किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता है न भवन्ति' जायन्ते 'त्राणं' शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धेः, उक्तं हि तैरपि-"अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिरः । दुष्कुलेनाप्यधीयन्ते, शीलं यस्य स रोचते ॥१॥” तथा-"शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥२॥" तथा 'भुज'त्ति अन्तर्भावितण्यर्थत्वाद्भोजिताः 'द्विजाः' ब्राह्मणाः 'नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो-नरकस्तत्तमसा-अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्रे रौरवादिनरके णमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादावेव कर्मोपचयनिवन्धने असद्वयापारे । प्रवर्त्तन्त इत्यसत्प्रवर्त्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दुरापास्तमित्यर्थादुक्तं, तथा 'जाताश्च उत्पन्नाः 'पुत्राः' सुता न भवन्ति 'त्राणं' शरणं नरकादिगतौ निपततामिति गम्यते, उक्तं हि तन्मतानुसा Jain Education rational For Personal & Private Use Only R w.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy