SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२४॥ सम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौषः अकामतस्मिन् , महत्त्वं चोभयत्रागाधतयाऽदृष्टपरपारतया च मन्तव्यं, तत्र किमित्याह–'एक' इत्यसहायो रागद्वेषादिस-3 मरणाध्य. हभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालापेक्षया वर्तमाननिर्देशः, 'दुरुत्तरं ति विभक्तिव्यत्ययाद्दुरुत्तरे-दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा, न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्मभिः । सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव-जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रे'ति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतिरद्वितीयः, किमुक्तं भवति ?-तीर्थकरः, स ह्येक एव भरते सम्भवतीति, 'महापण्णे'त्ति महती-निरावरणतयाऽपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् अस्येति महाप्रज्ञः, स किं इत्याह-'इमम्' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, 'पटुंति स्पष्टम्-असन्दिग्धं, पठ्यते च ‘पण्हंति पृच्छयत इति || प्रश्नं-प्रष्टव्यार्थरूपम् ‘उदाहरे'त्ति भूते लिट्, तत उदाहरेद-उदाहृतवान् , पठ्यते च-'अण्णवंसि महोघसि, एगे तिण्णे दुरुत्तरंति, अत्र सुब्व्यत्यये विशेषः, ततश्च-अर्णवान्महौघाहरुत्तरात् तीर्ण इव तीर्णः-तीरप्राप्त इति-|॥२४१॥ योगः, एको घातिकर्मसाहित्यरहितः, 'तत्रे'ति सदेवमनुजायां परिषदि, एकोऽद्वितीयः, स च तीर्थकृदेव, शेष प्राग्वदिति सूत्रार्थः ॥१॥ यदुदाहृतवांस्तदेवाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy