SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ वशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्थाः ते च ते जीवाश्चेति विशेषणसमासः, म्रियन्ते, आवीचिकमवीचिकं वा मरणमाश्रित्येति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन म्रियन्ते 'सदा' सर्वकालं, 'ओहिं च'त्ति अवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'आइयंतियन्ति आत्यन्तिकमरणं च, द्वे अप्येते 'भजनया' विकल्पनया, किमुक्तं भवति ?-यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःक्षय-14 समय एव तयोः सम्भवान्न सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम् , अनेनावीचिमरणस्य सदाभावेन लोके मरणत्वेनाप्रसिद्धिः अविवक्षायां हेतुरुक्त इति भावनीयं । सम्प्रति 'दोन्निवि' इत्यादि व्यक्तीकरोति-'ओहिं च आइयंतिय'त्ति, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'वालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, 'पण्डितं च' पण्डितमरणं, 'मिश्रं च' बालपण्डितमरणं च, चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिक्षेङ्गिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भवात् , तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालम रणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आह६ वलन्मरणान्तःशल्यमरणे अपि बालमरणभेदावेव, यत आगमः-"बालमरणे दुवालसविहे पन्नत्ते, तंजहा-वलायमरणे १ बालमरणं द्वादशविधं प्रज्ञप्तं, तद्यथा-वलन्मरणं dan Education Internet For Personal & Private Use Only Tamainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy