SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सर्वाहि लद्धीहिं सवेऽवि परीसहे पराजित्ता । सवेऽवि य तित्थयरा पातोवगया उ सिद्धिगया ॥२॥ अवसेसा अणगारा तीयपडुप्पण्णऽणागया सवे । केती पातोवगया पञ्चक्खाणिगिणिं केती ॥३॥” इति कृतं प्रसङ्गेनेति गाथार्थः ॥ २२५ ॥ इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणविभक्तिप्ररूपणाद्वारमनुवर्णिणतम् , अधुनाऽनुभावप्रदेशाग्रद्वारद्वयमाह सोवक्कमो अ निरुवकमो अदुविहोऽणुभावमरणंमि । आउगकम्मपएसग्गणंतणंता पएसेहिं ॥ २२६ ॥ . व्याख्या-सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति सोपक्रमश्च, निर्गत उपक्रमान्निरुपक्रमश्च द्विविधो, द्वैविध्यं चोक्तभेदेनैव, कोऽसौ ?-अनुभाव-अनुभागः, क ?-मरणे' इत्यर्थात् मरणविषयायुषि, तत्र हि सप्तभिरष्टभि ऽऽकर्षैर्गवामिव मरुषु जलगण्डूषग्रहणरूपैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रम-1X मुच्यते, यत्तु षड्भिः पञ्चभिश्चतुर्भिर्वा आगृहीतं-दलिकं तदपवर्तनाकरणेनोपक्रम्यते इति सोपक्रम, न चैतदुभयमप्यायुःक्षयात्मनि मरणे सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म आयुःकर्म तस्य विभक्तुमशक्यतया प्रकृष्टा देशाः प्रदेशास्तेषामग्रं-परिमाणमायुःकर्मप्रदेशाग्रम् , अनन्तानन्ताः-अनन्तानन्तसङ्खयापरिमिता मरणप्रकमेऽप्यर्थादायुःपुद्गलास्तद्विषयत्वाच मरणस्यैवमुपन्यासः, किमेतावन्तः कृत्स्नेऽप्यात्मनि, अत आह-'पएसेहिति 5१ सर्वाभिः लब्धिभिः (युताः ) सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगतास्तु सिद्धिं गताः ॥२॥ । अवशेषा |अनगारा अतीतप्रत्युत्पन्नागताः सर्वे । केचित्पादपोपगताः प्रत्याख्यानेङ्गिन्यौ केचित् ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy