________________
दुष्पूरकः 'इमेत्ति अयं प्रत्यक्षः 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ किमिति न सन्तुष्यतीति स्वसंविदितं हेतुमाह॥ जहा लाभो तहा लोभो लाभा लोभो पवहति । दोमासकयं कजं कोडीएवि न निट्ठियं ॥ १७॥
व्याख्या-'यथा' येन प्रकारेण 'लाभः' अर्थावाप्तिः 'तथा' तेन प्रकारेण 'लोभः' गाद्धर्थमभिकाङ्केतियावत् , भव-2 तीति शेषः, किमेवमित्याह-लाभाल्लोभः 'प्रवर्धते' प्रकर्षण वृद्धिं भजते, इह च लाभाल्लोभः प्रवर्द्धत इति वचनाद्यथा तथेत्यत्र वीप्सा गम्यते, ततश्च-यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति, लाभाल्लोभः प्रवर्द्धत इत्यपि कुत इत्याह-द्वाभ्यां-द्विसङ्ख्याभ्यां माषाभ्यां-पञ्चरक्तिकामानाभ्यां क्रियते-निष्पाद्यत इति द्विमाषकृतम् , आपत्वाद्वर्तमानकाले क्तः, 'कार्य' प्रयोजनं, तचेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकया। 'न निष्ठितं' न निष्पन्नं, तदुत्तरोत्तरविशेषवान्छात इति सूत्रार्थः ॥ सम्प्रति यदुक्तं-'द्विमाषकृतं कार्य कोट्याऽपि| न निष्ठित'मिति, तत्र तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाहनो रक्खसीसु गिज्झेजा गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता खेल्लंति जहा व दासेहिं ॥१८॥ । व्याख्या-'नो' नैव राक्षस्य इव राक्षस्यः--स्त्रियः तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च (सर्वखं) तानि च ताभिरपहियन्त एव, तथा
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org