SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अन्यजन्मनि तेनैवोज्झिता अनयोर्द्वन्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ' त्ति ‘णो जसूशसोर्लोपे' आषत्वाच'लोपे दीर्घ' इति दीर्घत्वस्याभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, चशब्दोऽयं विश्व समुच्चये, एते च किमित्याह-'भवंति' त्ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते, इयमत्र भावना-बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद् दृश्यमानत्वेन, मुक्तास्तूभयेऽपि बाह्याः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवददृश्यमानत्वेन, अतो देहैर्मात्रादिभिश्च बद्धमुक्तैः खखामिभावलक्षणसम्बन्धो जीवस्योभयसम्ब-21 न्धनसंयोगः।आह-देहादयो मुक्ताश्च खखामिविषयाश्चेति विरुद्धमेतत् , एवमेतद् , यदि भावतोऽपि मुक्ताः स्युः, अथ भावतोऽप्यहमेषां खामी ममैते खमितिभावाभावान्मुक्ता एव ते, नन्वेवमैहिकेष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषयता ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम् , |एतदिहापि समानं, व्युत्सर्गाकरणत एव तद्विषयत्वस्वहापि विवक्षितत्वादिति गाथार्थः ॥६०॥ इत्थमनेकधा सम्बन्धनसंयोग उक्तः, अयं च कीदृशस्य कस्य भवतीत्याहसंबंधणसंजोगो कसायबहुलस्स होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममजमाणस्स ॥६॥ व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, कषायाः-क्रोधादयस्तैर्बहुलस्य-व्यासस्य, प्रभूतकषायस्येत्यर्थः, 'भवति' 45455ॐॐॐॐॐॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy