SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अध्ययनम् बृहद्धृत्तिः पूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता ३ स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता ४, ३। वचनसम्पच्चतुर्भेदा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ असन्दिग्धवचनता ४, तत्राऽऽदेयवचनता-सकलजनग्राह्यवाक्यता १, मधुरं रसवद् यदर्थतो विशिष्टार्थवत्तयाऽर्थावगाढत्वेन शब्दतश्चापरुषत्वसौखर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुराहादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्धावो मधुरवचनता २ अनिश्रितवचनता-रागाद्यकलुषितवचनता ३ असन्दिग्धवचनता-परिस्फुटवचनता ४.४। वाचनासम्पचतुर्धा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं २ परिनिर्वाप्य वाचना३ अर्थनिर्यापणेति ४, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोदिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात् २, परीति-सर्वप्रकारं निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्ता|लापकादि सर्वात्मना खात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना ३, अर्थः-सूत्राभिधेयं वस्तु तस्य निरि|ति भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्येन खयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा ४, ५। मतिसम्पत् अवग्रहेहापायधारणारूपा चतुर्दा, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न विवियन्ते ६। प्रयोगमतिसम्पच्चतुर्धा-आत्मपुरुषक्षेत्रवस्तु विज्ञानात्मिका, तत्राऽऽत्मज्ञानं-वादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy