SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोज्जीवनार्थत्वाचास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः॥८॥ ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याशङ्ख्याह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आह- . स पुवमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं । विसीदति सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥९॥ (सूत्रम्) PI व्याख्या-'स' इति यत्तदोनित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मकं छन्दोनिरोधं 'पुचमेवं'ति एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात् 'न लभेत्' न प्राप्नुयात् , सम्भावने लिट् , ततश्च लाभसम्भावनाऽपि न समस्ति, किं पुनस्तल्लाभ इति, 'पश्चात् ' अन्त्यकाले मलापध्वंससमये वा, 'एसोवम'त्ति एषा-अनन्तरमभिहितस्वरूपा उप-सामीप्येन मीयते-परिच्छिद्यते खयं-13 प्रसिद्ध्या अपरमप्रसिद्धं वस्त्वनयेत्युपमा, केषां ?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशिवत् कर्तर्युपमाने (पा-३-२-१९) इति णिनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युमनियतकालभाविनमपश्यताम् , dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy