________________
*
*
*
*
। अतो 'नीतिश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्मि
निर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाङ्गं ततो न जय इति शरीरम्टू अर्थात् परिपूर्णाङ्गं, तत्राप्यारोग्यमेव जयायेति 'आरोग्गय'त्ति अरोगता, चः समुच्चये, एवोऽवधारणे, ततः समु
|दितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थः॥ १५४ ॥ भावाङ्गमाह, भावंगंपि य दुविहं सुअमंगं चेव नोसुयंगं च । सुयमंगं बारसहा चउव्विहं नोसुअंगं च ॥ १५५ ॥ |
व्याख्या-भावाङ्गमपि च द्विविधं 'सुयमङ्गं चेव'त्ति श्रुताङ्गं चैव नोश्रुताङ्गं च, श्रुताङ्गं द्वादशधा-आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात् , उक्तं-हि-"भावे खओवसमिए दुवालसंगपि होइ सुयणाणं'ति, 'चतुर्विधम्' चतुष्प्रकारं नोश्रुताङ्गं तु, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताङ्गं पुनः, मकारश्च सर्वत्रालाक्षणिक इति गाथार्थः ॥ १५५ ॥ एतदेवाह
माणुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअं च । एए भावंगा खलु दुल्लभगा हुंति संसारे ॥१५६॥ ना व्याख्या-'मानुष्यम्' मनुजत्वम् , अस्य चादावुपन्यास एतद्भाव एव शेषाङ्गभावात् , 'धर्मश्रुतिः' अर्हत्प्रणीत
१ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानमिति
**
*
dain Education International
For Personal & Private Use Only
www.jainelibrary.org