SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ वन्न दीप्येत, सज्वलनकोपमपि न कुर्यादिति सज्वलेदित्युपादानं, किमेवमुपदिश्यत इत्याह-सदृशः' समानो भवति, सअवलन्निति प्रक्रमः, केषां !-'बालानाम्' अज्ञानां, तथाविधक्षपकवत्, यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम् , अन्यदैकेन धिरजातिना सह योद्धमारब्धः, तेन च बलवता क्षतक्षामशरीरो भुवि पातितः ताडितश्च, रात्रौ देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततश्चासौ देवतयाऽभिहितो-भगवन् ! किं मयाऽपराद्धं ?, स प्राह-न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं, सा चावादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयं च धिग्जातिरिति, यतः कोपाविष्टौ द्वावपि समानौ सम्पन्नाविति, ततः सती प्रेरणेति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थ निगमयितुमाह-'तम्ह' ति यस्मात्सदृशो भवति बालानां तस्माद्विक्षन सवलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाहसोचाणं फरुसा भासा,दारुणे गामकंटए।तुसिणीओ उवेक्खिज्जा, ण ताओ मणसी करे॥२५॥(सूत्रम्) | व्याख्या-'श्रुत्वा' आकर्ण्य, णमिति वाक्यालङ्कारे 'परुषाः' कर्कशाः 'भाषा' गिरो दारयन्ति मन्दसत्त्वानां संयमविषयां धृतिमिति दारुणाः ताः, ग्रामः-इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टकाः-प्रतिकूलशब्दादयः, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्गप्रवृत्तिविघ्नहेतुतया च, तदेकदेशत्वेन परुषभाषा अपि तथोक्ताः, भाषाविशेषणत्वेऽपि चात्राविष्टलिङ्गत्वात्पुंलिङ्गता, 'तूष्णीकः' तूष्णीशीलो न कोपात् प्रतिपरुषभाषी, एवंविधश्च पार्थः ॥ २४ ॥ कृत्योपदेशमाहोउवेक्खिजा, ण ताओ मणात मन्दसत्त्वानां ? Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy