________________
RSS RSSRO AROGROSAROSADEOS
तेत्तीसइमे कम्मं चउतीसइमे य हुंति लेसाओ। भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे ॥२६॥ | व्याख्या--आसामर्थः सुखावगम एव । नवरं विनयमूलोऽयं धर्मः, यत आगमः-- “मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति पत्ता, ततो उ पुष्पं च फलं रसोय ॥१॥ एवं धम्मस्स |विणओ मूलं परमो से मोक्खो। जेण कित्तिं सुयं सिग्धं, णीसेसं चाभिगच्छई ॥ २॥" इत्यतः प्रथमाध्ययने विनयोऽधिकृतः, विनयवतश्च तेषु तेषु गुरुनियोगेषु प्रवर्तमानस्य कदाचित् परीषहा उत्पधेरन् ते च सम्यक् सोढव्या इति द्वितीयाध्ययने परीषहा इत्यादि क्रमप्रयोजनमभ्यूह्यम्, अध्ययनसम्बन्धाभिधानप्रस्तावे चाभिधास्यामः। उपसंहरन्नाह- . उत्तरज्झयणाणेसो पिंडत्थो वण्णिओ समासेणं । इत्तो इक्विकं पुण अज्झयणं कित्तइस्सामि ॥२७॥
व्याख्या-उत्तराध्ययनानाम् 'एषः' अनन्तराभिहितस्वरूपः 'पिण्डार्थः' समुदायार्थः 'वर्णितः' उक्तः 'समासेन' सक्षेपेण, 'इतः' पिण्डार्थवर्णनाद् , अनन्तरमिति गम्यते, एकैकं 'पुनः' विशेषणे अध्ययनं 'कीर्तयि
१ मूलात् स्कन्धप्रभवो द्रुमस्य, स्कन्धात् पश्चात्समुपयन्ति शाखाः । शाखाभ्यः प्रशाखाः (ताभ्यः) विरोहन्ति पत्राणि ततस्तु पुष्पं च है फलं रसश्च ॥ १ ॥ एवं धर्मस्य विनयो मूलं परमः स मोक्षः । येन कीर्ति श्रुतं शीघ्र निःश्रेयसं चाभिगच्छति ॥२॥ रसि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org