________________
परीषहाध्ययनम्
उत्तराध्य. |विसर्जनीयस्येति रेफात् , ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः-शत्रयो
यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः, किमित्याह-'णागो संगामबृहद्वृत्तिः
सीसे वेति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव-हस्तीव संग्रामस्य शिर इव शिरः-प्रकर्षावस्था संग्रामशिरस्त॥९१॥13 स्मिन् 'शूरः' पराक्रमवान् , यद्वा शूरो-योधः, ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूर
विद्वाऽभिहन्यात् , कोऽर्थः?-अभिभवेत् 'परं' शत्रुम् , अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तुद्य
मानोऽपि तदगणनया रणशिरसि शत्रून् जयति, एवमयमपि दंशादिभिरभिद्यमानोऽपि भावशत्रु-क्रोधादिकं जये
दिति सूत्रार्थः ॥ १०॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाहa ण संतसे ण वारिजा, मणंपिणो पउस्सए। उवेहे नो हणे पाणे, भुंजते मंससोणिए॥११॥(सूत्रम्) || व्याख्या-'न संत्रसेत् ' नोद्विजेत् , दशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, |अङ्गानीति शेषः, 'न निवारयेत् ' न निषेधयेत् , प्रक्रमाइंशादीनेव तुदतो, मा भूदन्तराय इति, मनः-चित्तं तदपि,
आस्तां वचनादि, 'न प्रदूषयेत् 'न प्रदुष्टं कुर्यात् , किन्तु 'उवेहे'त्ति उपेक्षेत-औदासीन्येन पश्येद् , अत एव न हन्यात् 'प्राणान् 'प्राणिनो 'भुजानान्' आहारयतो मांसशोणितम् , अयमिहाशयः-अत्यन्तबाधकेष्वपि दंशका
AMOHAGARAAR
॥९१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org