________________
अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या:-"णाणाहीणं सवं णाणणओ भणति किं च किरियाए ?। किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥"
क्वचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, क्वचिच्चार्थापत्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः॥१॥
इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनं समाप्तं ॥
[
प्रथममध्ययनं समाप्तम् ॥
१ज्ञानाधीनं सर्व शाननयो भणति किं च क्रियया । क्रियायाश्चरणनयः तदुभयग्रहश्च सम्यक्त्वम् ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org.