SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ है यथा हि अस्य खयंदमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति है। सूत्रार्थः ॥ १६ ॥ गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाहपडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा।आवि वा जइवा रहस्से, नेव कुजा कयाइवि ॥१७॥(सूत्रम्) | व्याख्या-'प्रत्यनीकम्' इति प्रतिकूलं, चः पूरणे, चेष्टितमित्युपस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्सनीकत्वं, केषाम् ?-'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् , कया ?-वाचा, किं त्वमपि किञ्चिजानीपे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्षं प्रकाशदेश इतियावत् , यदिवा 'रहस्ये विविक्तोपाश्रयादी 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा ग्राह्याः, दोषा वाच्या गुरोरपी ति कुमतनिराकरणार्थः, 'कुर्यात्' इति विदध्यात् , 'कदाचित् ' परुषभाषणादावपि इति सूत्रार्थः ॥ १७॥ पुनः शुश्रूषणात्मकं तमेवाहण पक्खओण पुरओ, णेव किच्चाण पिट्टओ। न जुजे उरुणा ऊरु, सयणे ण पडिस्सुणे ॥१८॥(सूत्रम्) व्याख्या-न पक्षतः' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पतिसमावेशतः तत्साम्यापादनेनाविनयभावात् , गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात् , न 'पुरतः' अग्रतः, तत्र *************** * Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy