________________
अर्हम् .
श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धार - ग्रन्थाङ्के
श्रीमद्भद्रबाहुस्वामिप्रणीता – सभाष्या - श्रीमन्मलयगिर्याचार्यविवृता, श्रीपिण्डनिर्युक्तिः ।
Jain Education International
॥ ॐ नमो वीतरागाय ॥
जयति जिनवर्द्धमानः परहितनिरतो विधूतकर्म्मरजाः । मुक्तिपथचरणपोषक निरवद्याहारविधिदेशी ॥ १ ॥ नत्वा गुरुपदकमलं गुरूपदेशेन पिण्डनिर्युक्तिम् । विवृणोमि समासेन स्पष्टं शिष्यावबोधाय ॥ २ ॥
आह— निर्युक्तयो न स्वतन्त्रशास्त्ररूपाः किन्तु तचत्सूत्रपरतन्त्राः, तथा तद्व्युत्पन्त्याश्रयणात्, तथाहि सूत्रोपाचा अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान् प्रति निर्युज्यन्ते - निश्चितं सम्बद्धा उपदिश्यं व्याख्यायन्ते यकाभिस्ता नियुक्तयः, भवताऽपि च प्रत्यज्ञायि - 'पिण्डनिर्युक्तिमहं विवृणोमि, ' तदेषा पिण्डनिर्युक्तिः कस्य सूत्रस्य प्रतिबद्धेति ?, उच्यते, इह दशाध्ययनपरिमाणश्चूलिकायुगलभूषितो दशवै
१ उपदर्श्य पू०
For Personal & Private Use Only
wwwwwww.jainelibrary.org