SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ पिण्ड नियुक्तिः ॥१७९॥ श्रीमालकुलालकृतिरासीदणहिल्लपत्तने वासी । व्यवहारिवरः सादाभिधान इद्धप्रधानगुणः॥१॥ जाया मायारहिता मटकूरिति विश्रुताऽस्य दयिताऽभूत् । पुत्राः सुत्रामसमाः श्रियाऽनयोः कुलमलचक्रुः ॥२॥ वरसिंहो जोगाको गोलाकश्चेति विदितनामानः । स्वमानयशोमण्डलधवलीकृतसकलदिग्वलयाः ॥३॥ प्रतिपन्नवाँस्तपस्यां वरसिंहः सिंहवृत्तितः शस्यां । श्रीसोमसुन्दरगुरोः पार्वेऽवसरे विशुद्धमनाः॥४॥ दयिताया वरसिंहव्यवहारिवरस्य तेषु कर्पूर्याः । श्रुतभक्त्या वाऽऽम्नाती नाम्ना पर्वत इति तनूजः ॥५॥ वरणूदयितापुत्रो मूलूर्माणिकिरमुष्य दयिता च । स्वसुते हेमतिदेमतिनाम्न्याविति परिकरेण वृतः॥६॥ श्रीसवाम्बुधिचन्द्रश्रीमज्जयचन्द्रसूरिराजानाम् । सुकृतोपदेशमनिशं निशम्य सम्यक् सुधादेश्यम् ॥ ७ ॥ श्रीपत्तनवास्तव्यो लक्षमितग्रन्थलेखनप्रवणः । नत्रान्तरिक्षतिथिमितवर्षे १५०२ हर्षेण लेखितवान् ॥ ८॥ पिण्डनियुक्तित्ति बृहतीमनक्यवचनसन्दर्भाम् । सुमनस्सन्ततिसेव्या गङ्गावदियं च जयतु चिरम् ॥९॥ इति श्रीपिण्डनियुक्तिवृत्तिः समाप्तेति भद्रं भवतु ।। २॥१७९॥ इति श्रेष्टि देवचन्द लालभाई-जैनपुस्तकोद्वारे ग्रन्थाङ्क: ४४ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy