________________
白白白白白白合白白白白色白白白白白白白令49999999999999
तवहेउ चउत्थाई जाव उ छम्मासिओ तवो होइ । छठे सरीरवोच्छेयणठ्ठया होअणाहारो ॥ ६६८ ॥
व्याख्या-'तपोहेतोः' तपःकरणनिमित्तं न भुञ्जीत, तपश्चतुर्थादिक-चतुर्थादारभ्य तावद्भवति यावत् 'पाण्मासिक' षण्मासप्रमाणं, परतो भगवदर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात , षष्ठं पुनः प्रागुक्तविधिना चरमकाले शरीरव्यवच्छेदार्थ भवत्यनाहारः॥ तदेवमुक्तं कारणद्वारं, तदुक्तौ चोक्ता ग्रासैषणा, तदभिधानाच्च समाप्ता गवैषणाग्रहणैषणाग्रासैषणाभेदात्त्रिविधाऽप्येषणा । सम्प्रत्यस्या एवैषणायाः सकलदोषसङ्कलनमाह
सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाएँ दोसा संजोयणमाइ पंचेव ॥ ६६९ ॥
व्याख्या-सुगमा, सर्वसङ्ख्यया सप्तचत्वारिंशदेपणादोपाः। एतान् विशोधयन् पिण्डं विशोधयति, पिण्डविशुद्धौ च चारित्रशुद्धिः चारित्रशुद्धौ मुक्तिसम्पाप्तिः , उक्तं च-" एएं विसोहयंतो पिंडं सोहेइ संसओ नत्थि । एए अविसोहिते चरित्तभेयं बियाणाहि ॥१॥
१ एतान् विशोधयन् पिण्डं शोधयति संशयो नास्ति । एतानविशोषयति चरित्रभेदं विजानीहि ॥१॥ श्रमणत्वस्य सारो भिक्षाचर्या जिनैः प्रज्ञप्ता । अत्र परितप्यन्तं तं जानीहि मन्दसंवेगम् ॥२॥ ज्ञानचरणस्य मूलं भिक्षाचर्या जिनैः प्रज्ञप्ता । अत्र तूद्यच्छन्तं तं जानीहि तीसंवेगम् A॥३॥ पिण्डमशोधयन् अचारित्री अत्र संशयो नास्ति । चारित्रेऽसति निरथिका भवत्येव दीक्षा ॥ ४॥ चारित्रेऽसति निर्वाणं नैव गच्छति ।। निर्वाणेऽसति सर्वा दीक्षा निरर्थिका ॥ ५॥
एतत्षट्कं निगमयन्नाह-एएहिं छहिं ठाणेहिं, अणाहारो उ जो भवे । धम्मं नाइक्कमे भिक्खू, धम्मज्झाणरओ भवे ॥ १॥ एषा गाथा श्रीवीराचार्यकृतश्रीपिण्डनियुक्तिवृत्तौ सूत्रे च दृश्यते, श्रीमलयगिरिसूरिप्रणीतवृत्त्यादर्शेषु तु बहुषु न दृश्यते ।
Jain Education Internal
For Personal & Private Use Only
ww.jainelibrary.org