________________
अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु । अंगारत्ति पवच्चइ तं चिय दड्ढं गए धूमे ॥ ६५६ ॥
व्याख्या - अङ्गारत्वममाप्तं ज्वलदिन्धनं सधूममुच्यते, तदेवेन्धनं दग्धं धूमे गते सत्यङ्गार इति, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गार इत्युच्यते, द्वेषाग्निना तु दह्यमानं चरणेन्धनं सधूमं निन्दात्मक कलुषभावरूपधूम सम्मिश्रत्वात् । एतदेव भात्रयतिरागग्गिसंपलित्तो भुंजंतो फासूर्यपि आहारं । निद्दड्ढंगालनिभं करेइ चरणिघणं खिप्पं ॥ ६५७ ॥ व्याख्या - प्रासुकमप्याहारं भुञ्जानो रागाग्निसम्प्रदीप्तचरणेन्धनं निर्दग्धाङ्गारनिभं क्षिप्रं करोति ।
दोसग्गीवि जलंतो अप्पत्तियधूमधूमियं चरणं । अंगारमित्तसरिसं जा न हवइ निद्दही ताव ॥ ६५८ ॥ व्याख्या - द्वेषाग्निरपि ज्वलन् ' अप्रीतिरेव ' कलुषभाव एव धूमः अप्रीतिधूमः तेन धूमितं 'चरणं' चरणेन्धनं यावदङ्गारमात्रसदृशं न भवति तावन्निर्दहति । तत इदमागतं —
रागेण सइंगालं दोसेण सधूमगं मुणेयव्त्रं । छायालीसं दोसा बोद्धव्वा भोयणविहीए ॥ ६५९ ॥
व्याख्या - रागेणाssध्मातस्य यद्भोजनं तत्साङ्गारं चरणेन्धनस्याङ्गारभूतत्वात्, द्वेषेणाऽऽध्मातस्य तु यद्भोजनं तत्सधूमं निन्दा|त्मककलुषभावरूपधूम सम्मिश्रत्वात् । तदेवं भोजनविधौ सर्वसङ्घयया षट्चत्वारिंशदोषा बोद्धव्याः, तद्यथा - पञ्चदश उद्गमदोषाः, अध्यवपूरकस्य मिश्रजातेऽन्तर्भावविवक्षणात्, षोडश उत्पादनादोषा दश एषणादोषाः संयोजनादीनां च पञ्चकमिति । कीदृशः पुनराहार: साधुना भोक्तव्य इत्याह
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org