________________
समेतो गलः सरोमध्ये प्रचिक्षिपे, तत्र च सरसि परिणतबुद्धिरेको महादक्षो जीर्णमत्स्यो वर्तते, स गलगतमांसगन्धमाघ्राय तद्भक्षणार्थ || गलस्य समीपमुपागत्य यत्नतः पर्यन्ते पर्यन्ते सकलमपि मांसं खादित्वा पुच्छेन च गलमाहत्य दूरतोऽपचकाम, मत्स्यबन्धी च गृहीतो गलेन मत्स्य इति विचिन्त्य गलमाकृष्टवान् , पश्यति मत्स्यमांसपेशीरहितं गलं, ततो भूयोऽपि मांसपेशीसहितं गलं प्रचिक्षेप, तथैव च स मत्स्यो मांसं खादित्वा पुच्छेन च गलमाहत्य पलायितवान् , एवं त्रीन् वारान् मत्स्यो मांसं खादितवान्, न च गृहीतो मत्स्यबन्धेन ।
अह मंसंमि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओऽसि ॥६३१॥
व्याख्या-अथ मांसे प्रक्षीणे ध्यायन्तं मात्स्यिकं मत्स्यो भणति, यथा किं त्वमेवं 'ध्यायसि' चिन्तयसि ?, शृणु तावद्यथा त्वम् 'अहीक' निर्लज्जो भवसि ।।
तिबलागमुहम्मुक्को, तिक्खुत्तो वलयामुहे । तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे ॥ ६३२ ॥
व्याख्या-अहमेकदात्रीन् वारान् बलाकाया मुखादुन्मुक्तः, तथाहि-कदाचिदई बलाकया गृहीतः, तथा (त:) तया मुखे प्रक्षेपार्थमूर्द्धमुत्क्षिप्तस्ततो मया चिन्तितं यद्यहमृजुरेवास्या मुखे निपतिष्यामि तर्हि पतितोऽयं मुखे इति न मे प्राणकुशलं, तस्मात्तिर्यग्निपतामीत्येवं विचिन्त्य दक्षतया तथैव कृतं, परिभ्रष्टस्तस्या मुखात्ततो भूयोऽपि तयोर्द्धमुक्षिप्तस्तथैव च द्वितीयमपि वारं मुखात्परिभ्रष्टा, तृतीयवेलायां तु
जले निपतितस्ततो दूरं पलायितः, तथा 'त्रिकृत्वः' त्रीन् वारान् 'वलयामुखे' वेलामुखे भ्राष्ट्ररूपे निपतितोऽपि दक्षतया शीघ्रं वेलबायेव सह विनिर्गतः, तथा 'त्रिसप्तकृत्वः' एकविंशतिवारान् मात्स्यिकेन प्रक्षिप्ते जाले पतितोऽपि यावन्नाद्यापि स मत्स्यबन्धी संको
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org