________________
उपासक-
कामदेवा
दशाई
ध्ययनम्
॥ २६ ॥
अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तया, कल्याणकानि-प्रवराणि माल्यानि-कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा, भास्वर- बोन्दीक-दीप्तशरीरं, प्रलम्बा या वनमाला-आभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, नवरं ऋदया-विमानवस्त्रभूषणादिकया युक्तथा-इष्टपरिवारादियोगेन प्रभया-प्रभावेन छायया-प्रतिबिम्बेन आर्चिषा-दीप्तिज्वालया तेजसा-कन्त्या लेश्यया-आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति,पासादीयं चित्तालादकं दर्शनीयं यत्पश्यच्चक्षुर्न श्राम्यति अभिरूपं-मनोमं प्रतिरूपं द्रष्टारं द्रष्टारंपति रूपं यस्य विकुळा-वैक्रियं कृत्वा अन्तरिक्षप्रतिपन्नः आकाशस्थितः 'सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्के देविन्दे' इत्यादौ यावत्करणादिदं दृश्यं 'वजपाणी पुरन्दरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिबई एरावणवाहणे सुरिन्दे अरयम्बरवत्यधरे आलइयमालमउडे नवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डे भासुरबोन्दी पलम्बवणमाले सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए' चि, शक्रादिशब्दानां च व्युत्पत्त्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि-शक्तियोगाच्छक्रः, देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानां मध्ये राजमानत्वात्-शोभमानत्वाद्देवराजः, वज्रपाणिः-कुलिशकरः, पुरं-असुरादिनगरविशेषस्तस्य दारणात्पुरन्दरः, तथा ऋतुशब्देनेह प्रतिमा विवक्षिताः, ततः कार्तिकश्रेष्ठित्वे शतं क्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरिति चर्णिकारव्याख्या, तथा पश्चानां मन्त्रिशतानां सहस्रमणां भवतीति तद्योगादसौ सहस्राक्षः, तथा मघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति स| मघवान्, तथा पाको नाम बलवास्तस्य रिपुः तच्छासनात्पाकशासनः, लोकस्याईम्-अर्द्धलोको दक्षिणो योद्धलोकः तस्य योऽधिपतिः स तथा, ऐरावणवाहणे-ऐरावतो-हस्ती स वाहनं यस्य स तथा, सुष्टु राजन्ते ये ते सुरास्तेषामिन्द्रः-प्रभुः सुरेन्द्रः ।
॥२६॥
I Jain Education.International
For Personal & Private Use Only
www.jainelibrary.org