SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तन्निभं तत्सदृशमिति, कचित्तु 'वियडकोप्परनिर्भ' ति दृश्यते, तच्चोपदेशगम्यं, 'सालिभसेल्लसरिसा' ब्रीहिकणिशभूकसमाः ' से ' तस्य 'केसा' वालाः, एतदेव व्यनक्ति-'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्त्या रोचमानाः 'उडियाकभल्लसंठाणसंठियं । उष्ट्रिका-मृण्मयो महाभाजनविशेषस्तस्याः कभल्लं-कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं ति ललाट, पाठान्तरे 'महल्लउट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदृशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछ व भुजपरिसर्पविशिषो मुगुंसा सा च खाडहिल्लत्ति सम्भाव्यते, तत्पुच्छवत् , ' तस्येति पिशाचरूपस्य ' भुमगाओ' ति भ्रुवो, प्रस्तुतोपमार्थमेव व्यनक्ति-'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ' त्ति प्रतीतं 'विगयबीभच्छदसणाओ' त्ति विकृतं बीभत्सं च दर्शनं-रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाण' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तस्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्थितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कौँ-श्रवणौ यथा शूर्पकर्तरमेव-शूर्पखण्डमेव नान्यथाकारी, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव |' उरब्भपुडसन्निभा' उरभ्रः-ऊरणस्तस्य पुटं-नासापुटं तत्सन्निभा-तत्सदृशी नासा-नासिका, पाठान्तरेण-'हुरब्भपुडसंठाणसंठिया' तत्र हुरब्भ्रा-वाद्यविशेषस्तस्याः पुट-पुष्करं तत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः 'झुसिर' त्ति महारन्ध्रा 'जमलचुल्लीसंठाणसंठिया' यमलयोः-समास्थितद्वयरूपयोः चुल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे, वाचनान्तरे ' महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुन्नतास्थित्वाच्च 'कुब्ब' ति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य 'कपोलो' गण्डौ तथा 'घोडय'त्ति घोटकपुच्छबद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य 'श्मणि Education For Personal & Private Use Only Jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy