SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ श्रीमत्सुधर्मस्वामिप्रणीतं नवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवरविवृतं श्रीउपासकदशाङ्गसूत्रम् ॥ प्रथममध्ययनम् । श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां, पायो ग्रन्थान्तरेक्षिता ॥१॥ तत्रोपासकदशाः सप्तममङ्गं, इह चायमभिधानार्थः-उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाःदशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्य नैव प्रतिपादितान्यवगन्तव्यानि, तथाहि-उपासकानुष्ठानमिहाभिधेयं, तदवगमश्च श्रोतृणामनन्तरप्रयोजनं, शास्त्रकृतां तु तत्प्रतिबोधनमेव तत. परम्परप्रयोजनं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्रीपायोपेयभावलक्षणः शास्त्रनामान्वर्थसामर्थ्येनेवासामभिहितः, तथाहि-इदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह| ॥ऐं ॥ तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, वण्णओ, पुणभद्दे चेइए, वण्णओ ॥ (सू०१) तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी-जइ णं भन्ते : Jan Educationala For Personal & Private Use Only iyainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy