SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 34. दवाग्नेः-वनाग्नेर्दानं-वितरणं क्षेत्रादिशोधननिमित्तं दवाग्निदानमिति १३, 'सरोन्हदतडागपरिशोपणता' तत्र सरः-स्वभावनिपन्नंहदो-नद्यादीनां निम्नतरःप्रदेशः तडागं-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां शोषणगोधमादीनां वपनार्थ१४, 'असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थ यत्तत् तथा,एवमन्यदपि क्रूरकर्मकारिणः पाणिनः पोषणमसतीजनपोषणमेवेति१५ । 'कन्दप्पे' ति कन्दर्पः-कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रं मोहोद्दीपक नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १, 'कुक्कइए' ति कौत्कुच्यम् अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनक्रिया, अयमपि तथैव २, मोहरिए'त्तिमौखर्यधाष्टर्थप्रायमसत्यासम्बद्धालापित्वमुच्यते, अयमतिचारः प्रमादव्रतस्य पापकर्मोपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे' ति संयुक्तम्अर्थक्रियाकरणक्षममधिकरणम्-उदूखलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंस्रप्रदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रं कटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, 'उवभोगपरिभोगाइरित्ते' ति उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि |भोजनप्रक्रमे अशनपानादीनि तेषु यदतिरिक्तम्-अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मापभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति ५। उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह-'सामाइयस्स' ति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आयःप्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः सः प्रयो Jain Education a l For Personal & Private Use Only boldainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy