SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ NA १ आनन्दा उपासकदशाङ्गे ध्ययनं व्रतातिचारोपदेशः त्ति असद्भूतार्थस्य लेखस्य विधानमित्यर्थः, एतस्य चातिचारत्वं प्रमादादिना दुर्विवेकत्वेन वा, 'मया मृषावादः प्रत्याख्यातोऽयं तु कूटलेखो, न मृषावादनम्' इति भावयत इति ५, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिजं सन्धिकरणे' त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थलमृपावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादसहसाकारानाभोगैर-1 भिधीयमाना मृषावादविरतेरतिचारा भवन्ति, आकुट्टया तु भङ्गा इति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीक कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्व मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानां सचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितं द्रव्यमित्यर्थः, तस्यापहारः-अपलपनं| न्यासापहारः,तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्य-साक्षिकर्म कूटसाक्ष्य, कस्मिन्नित्याह-'सन्धिकरणे' द्वयोर्विवदमानयोः सन्धा|नकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आद्यत्रयान्तर्भावेऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रिययोर्भेदेनोपादानं द्रष्टव्यमिति । 'तेणाहडे' त्ति स्तेनाहृतं-चौरानीतं, तत्समर्थमिति लोभाकाणक्रयेण गृहृतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तनाहृतमित्यतिचार उक्तः, अतिचारता चास्य साक्षाचौर्याप्रवृत्तेः १, 'तक्करप्पओगे' त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिभिरिति २, 'विरुद्धरज्जाइक्कमे त्ति विरुद्धनृपयो राज्यं तस्यातिक्रमः-अतिलवनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे' ति तुला-प्रतीता मान-कुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः, अथवा 'नाहं चौरः क्षत्रखननादेरकरणात' ॥ ७ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy