________________
यजणनिसेवियं निस्संसं अप्पच्चयकारक परमसाहुगरहणिज परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं पुणब्भवकरं चिरपरिचियमणुगयं दुरुत्तं बितियं अधम्मदारं समत्तं ॥२॥ (सू०८) 'तस्से'त्यादि 'तस्स'त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः-उदयः सा-| ध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटां नरकतिर्यग्योनि तत्रोत्पादनमित्यर्थः, तेन चालीकेन तजनितकर्मणेत्यर्थः समनुबद्धाः-अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह-जीवलोके, किंभूता इत्याह-दुग्र्गताः-दुःस्था दुरन्ता:-दुष्पर्यवसानाः परवशाः-अस्वतन्त्राः अर्थभोगपरिवर्जिताः-द्रव्येण भोगैश्च रहिताः 'असुहियत्ति असुखिताः अविद्यमानसुहृदो वा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा-विकृतरूपा विवर्णा-विरूपवर्णा इति पदत्रयस्य कर्मधारयः तथा खरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः-रतिं वचिदप्यप्राप्ताः ध्यामा:-अनुज्वलच्छायाः शुषिरा:-असारकाया इति पदचतुष्टयस्य कर्मधारयः, निछायाः-विशोभाः लल्ला-अव्यक्ता विफला-फलासाधनी वार येषां ते तथा 'असकयमसक्कय'त्ति न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः असत्कृता:-अविद्यमानसत्कारास्ततः कर्मधारयो मकारचालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धा:-अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावात् दुभंगा:-अनिष्टाः अकान्ताः-अकमनीयाः काकस्येव खरो येषां ते काकखरा हीनो-हखो भिन्नश्च-स्फुटितो||
Jain Educati
o
nal
For Personal & Private Use Only
Hainelibrary.org