SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ *OSASAURISHISHCHISHGA क?-ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहुनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारकत्वादीन् शिशिरकाले-शीतकाले अङ्गारेषु प्रतापनाः शरीरस्याङ्गारप्रतापनाः ताश्च आतपः-सूर्यतापः स्लिग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखा:-हेमन्तादिकालविशेषेषु सुखकराः स्पर्शा अङ्गसुखं च निवृत्तिं चमनाखास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्ट्वा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्ठा स्पर्शान् अमनोज्ञपापकान 'किंतेत्ति तद्यथा अनेको-बहुविधो बन्धो-रज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽङ्ककरणं अतिभारारोहणं अङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनां मखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं-जीरणं गात्रप्रक्षण तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल'त्ति कलकलशब्दं करोति यत्तत्कलकलं अतितप्तमित्यर्थः तेन पुणा सीसकेन-काललोहेन च यत् सेचनं-अभिषेचनं यत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धनानि तानि त च्छब्दैरेवोक्तानि तथा कुम्भ्यां-भाजनविशेषे पाक:-पचनं दहनमग्निना सिंहपुच्छनं-शेफत्रोटनं उद्वन्धनं६ उल्लम्बनं शूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्ठशीर्षच्छेदनं च प्रतीतं जिह्वाञ्छनं-18 | जिह्वाकर्षणं वृषणनयनहृदयात्रदन्तानां यदु भञ्जनं-आमर्दनं तत्तथा, योकं-यूपे वृषभसंयमनं लता-कम्बा कषो-वईः एषां ये प्रहारास्ते तथा पदपाणिः-पादपाणिः जानु-अष्ठीवत् प्रस्तराः-पाषाणाः एषां यो निपातः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy