________________
XSHASSISTIROSSA*06***
नकादयो भवन्तीति, उक्तं च-"गर्भ वातप्रकोपेण, दोहदे वाऽपमानित । भवेत् कुञ्जः कुणिः पङ्गुर्मूको मन्मन एव वा ॥१॥” 'अंधिल्लग'त्ति अन्ध एवान्धिल्लको-जात्यन्धः, 'एगचक्खु'त्ति काणः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'विणिहय'त्ति विनिहतचक्षुरित्यर्थः, तत्र यजातस्य चक्षुर्विनिहननेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, 'सप्पिसल्लग'त्ति सह पिसल्लकेन-पिशाचकेन वर्त्तते यः स तथा ग्रहगृहीत इत्यर्थः, अथवा सर्पतीति सी-पीठसप्पी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः, व्याधिना-विशिष्टचित्तपीडया चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितो यः स तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद् दृष्ट्वेति प्रकृतं, विकृतानि च मृतककडेवराणि 'सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिं-पुरुषादिद्रव्यसमूहं दृष्ट्रेति प्रकृतं, तेष्विति सम्बन्धात् तेषु गण्ड्यादिरूपेषु अन्येषु चैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव २। 'तइयं ति तृतीयं भाव8|नावस्तु गन्धसंवृतत्वं, तच्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान मनोज्ञभद्रकान् 'किं तेत्ति तद्यथा जलजस्थलजसर
Join Education International
For Personal & Private Use Only
www.jainelibrary.org