________________
SHRESUCHAR
पाठान्तरेण विशुद्धो-निरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुकः गौरवत्रयत्यागात् निरवकाङ्क:-आकाङ्क्षावर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः स तथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निर्बणं-निरतिचारं चारित्रं-संयमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्यात्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेद्अनुपालयेत् धर्म-चारित्रलक्षणमिति । 'इमं चेत्यादि रक्खणट्टयाए' इत्येतदन्तं सुगम, नवरं अपरिग्रहरूपं विरमणं यत्तत्तथा 'पढमति पश्चानां मध्ये प्रथम भावनावस्तु शब्दनिःस्पृहत्वं नाम, तच्चैवं-श्रोत्रेन्द्रियेण श्रुत्या शब्दान् मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान् 'किंतेत्ति तद्यथा वरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः 'दद्दर'त्ति ददुरट: चौवनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपश्ची वल्लकी च वीणाविशेषाः वद्धीसक-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दी-द्वादशसूर्यनिर्घोषः तानि चामूनि-"भंभा मउंद मद्दल हडुक्क तिलिमा य करड कंसाला । काहल वीणा वंसो संखोपणवओ य बारसमो॥१॥” तथा सूसरपरिवादिनी-वीणाविशेष एव वंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तब्री-वीणाविशेष एव तला-हस्ततालास्ताला:-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि-वाद्यानि एषां यो निर्घोषो-दादः तथा गीत-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततः श्रुत्वेति योगात् द्वितीया,
वल्लकी च वीणावा लघुपटहाः 'दहुर'त्ति दशमकास्तान 'किंते'त्ति तयथावतचन-श्रोत्रेन्द्रियेण श्रु-13
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org