________________
प्रतिमासुवर्णगुलिकानयनावितसैन्यत्रिपुष्करकरणेन दाजही(मण्डल्या भ्रम
मतः किन्तैः?, ततः उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य.तत्रायातः, आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि प्रतिमां नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ खनगरी गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोजयिनी|| प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षमण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाङ्कितवानिति । किनरी सुरूपविद्युन्मती चाप्रतीता । तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरो नाम * राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थ रुधिरेण स्वयंवरो घोषितः
मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च धान्या क्रमेPणोपदर्शितेषु राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चा४.रिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता-मुग्धमृगनयनयुगले! शीघमिहागच्छ मैव
dain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org